Raghavendra Stotra

Script : Devanagari

श्री पूर्णबोध गुरुतीर्थ पयोजब्धिपारा कामारिमाक्ष विषमाक्ष शिरस्पृशंती ॥ पूर्वोत्तरा*मित तरंग चरत्सुहंसा देवालि सेवित परांफ़्रिपयोजलग्ना ॥ १॥ जीवेश भेद गुणपूर्ति जगत्सुसत्व नीचोच्चभाव मुखनक्र गणैस्समेता | दुर्वाद्यजापतिगिलैर्गुरु राघवेंद्र वाग्देवतासरिदमुं विमलीकरोतु ॥ २ श्री राघवेंद्रस्सकलप्रदाता स्वपादकंजद्दय भक्तिमद्भ ः | अघाद्रिसंभेदन दृष्टिवज्रः क्हमासुरेंद्रो*वतु मां सदायं ॥ ३ ॥ देवस्वभावो दिविजद्रुमो*य मिष्टप्रदोमे सततं स भूयात्‌ ॥ ४ ॥ श्री राघवेंद्रो हरिपादकंज नीषेवणाल्लब्ध समस्त संपत्‌ ॥ भव्यस्वरूपो भवदुःखतूल संघाग्नि चर्यःस्सुखधैर्यशाली । समस्त दुष्पग्रहनिग्रहेशो दुरत्कयोपप्पवसिंधुसेतुः ॥ ५ ॥ निरस्तदोषो निरवद्यवेषः प्रत्यर्थिमूकत्व निदानभाषः | विद्वत्परिज्जेय महाविशेषः वाग्वैखरी निर्जित भव्यशेषः ॥ ६ ॥ संतान संपत्परिशुद्ध भक्ति विज्ञानवाग्हे हसुपाटवादीन्‌ | दत्वाशरीरो5त्थ समस्तदोषान्‌ हत्वा स नोव्याद्गुरु राघवेंद्रः ॥ ७ ॥ यत्नादोदकसंचयः सुरनदी मुख्यापगासाधिता" संख्यानुत्तम पुण्यसंघ विलसत्भ्रख्यात पुण्यावहः । दुस्तापत्रय नाशनोभुवि महावंद्या सुपुत्रप्रदो व्यंगस्वंग समृद्धिदो ग्रहमहापापापहस्तंश्रये ॥ ८ ॥ यत्पादकंजरजसा परिभूषितांगा यत्पादपद्म मधुपायित मानसा ये ॥ यत्पादपद्म परिकीर्तन जीर्णवाचः तद्दर्शनं दुरितकानन दावभूतं ॥ ९ सर्वतंत्र स्वतंत्रोसौ श्रीमध्वमतवर्धनः | विजयींद्र कराब्दोत्न सुधींद्र वरपुत्रकः ॥ १० ॥ श्री राघवेंद्रो यतिराट्‌ गुरुर्मे स्यादृयापः | ज्ञानभक्ति सुपुत्रायुर्यशः श्री पुण्यवर्धनः ॥ ११ ॥ प्रतिवादि जयस्वांत भेदचिह्नादरो गुरुः सर्वविद्या प्रवीणान्यो राघवेंद्रान्नविद्यते ॥ १२ ॥ अपरोक्लीकृत श्रीशः समुपेक्षितभावजः | अपेक्षित प्रदातान्यो राघवेंद्रान्न विद्यते ॥ १३ ॥ दयादाक्षिण्य वैराग्य वाक्पाटव मुखांकितः शापानुग्रहशक्तो*5न्यो राघवेंद्रान्न विद्यते ॥ १४ ॥ अज्ञान विस्मृति भ्रांति संशयापस्मृृतिक्टंयाः । तंद्राकंपवचः कौंठ्यमुखाये चेंद्रियोद्धवाः | दोषाश्रे नाशमायांति राघवेंद्र प्रसादतः ॥ १५ ॥ ओं श्री राघवेंद्राय नमः इत्यष्टाक्टर मंत्रतः । जपिताद्भावितानित्यं इष्टार्थास्स्युर्नसंशः ॥ १६ ॥ हंतु नः कायजान्‌ दोषान्‌ आत्मात्मीय समुद्धवान्‌ सर्वानपि पुमर्थांश्च ददातु गुरुरात्मवित्‌ ॥ १७ ॥ इति कालत्रयेनित्यं प्रार्थनांयः करोतिसः । इहामुत्राप्त सर्वेष्टो मोदते नात्र संशयः ॥ १८ ॥ अगम्य महिमालोके राघवेंद्रो महायशाः । श्री मध्दमत दुग्दाब्लि चंद्रोवतु सदांनघः ॥ १९ सर्वंयात्रा फ़लावाप्तै यथाशक्ति प्रदक्षिणं । करोमि तवसिद्धस्य वृंदावनगतं जलं शिरसा धारंयाम्यद्य सर्वतीर्थ फ़लाप्तये ॥ २० ॥ सर्वार्भिीष्टार्थ सिद्धर्थं नमस्कारं करोम्यहं ॥ तवसंकीर्तनं वेदशास्ट्रार्थ ज्ञान सिद्धये ॥ २१॥ संसारे*क्टयसागरे प्रकृतितो*गाधे सदादुस्तरे सर्वावद्य जलग्रहैरनुपमैः कामादिभंगाकुले नानाविभ्रमदुर्भमे*मितभयस्तोमादिघेनोत्कटे 1 दुःखोत्क्यृष्ट विषेसमुद्धर गुरोमामग्नरूपं सदा ॥ २२ ॥ राघवेंद्र गुरुस्तोत्रं यः पठेदृक्तिपूर्वकं ॥ तस्य कुष्टादि रोगाणां निवृत्तिस्वरंया भवेत्‌ ॥ २३ ॥ अंधोपि दिव्य दृष्टिस्स्यादेडमूकोपि वाक्चतिः । पूर्णायुः पूर्णसंपत्तिः स्तोत्रस्कास्य जपाद्भवेत्‌ ॥ २४ ॥ यःपिबेज्जलमेतेन स्तोत्रेणैवाभिमंत्रितं तस्य कुक्लिगता दोषाः सर्वेनश्यंति तत्‌ क्षणात्‌ ॥ २५ ॥ यदवृंदावन मासाद्य पंगुः खंजोपि वा जनः । स्तोत्रेणानेन यः कुर्यात्‌ प्रदक्षिण नमस्कृती सं जंघालोभवेदेव गुरुराज प्रसादतः ॥ २६ ॥ सोमसूर्योपरागे च पुष्यार्कादि समागमे 1 योनुत्तम मिदं स्तोत्रं अष्टोत्तर शतंजपेत्‌ भूतप्रेत पिशाचादि पीडा तस्य न जायते ॥ २७ ॥ एतत्‌ स्तोत्रं समुच्चार्य गुरोब्ब)ंदावनांतिके । दीपसंयोजनात्‌ ज्ञानं पुत्रलाभोभवेद्भुवं ॥ २८॥ परवादिजयोदिव्य ज्ञानभक्त्वादिवर्धनं | सर्वाभीष्टप्प्रवृद्धिस्स्यान्नात्रकांर्या विचारणा ॥ २९ ॥ राजचोर महाव्याघ्र सर्पनक्रादिपीडनं न जायतेशस्य स्तोत्रस्य प्रभावान्नात्र संशयः ॥ ३० ॥ यो भक्त्वा गुरुराघवेंद्र चरणद्वंद्वं स्मरन्यः पठेत्‌ | स्तोत्रं दिव्यमिदं सदा न हि भवेत्‌ तस्यांसुखं किंचन ॥ ३१ ॥ किंत्विष्टार्थसमृद्धिरेव कमलानाथ प्रसादोदयात्‌ ॥ कीर्तिर्दिग्विदिता विभूतिरतुला साकीहंयास्योतत्रहि ॥ ३२ ॥ इति श्री राघवेंद्रार्य गुरुराज प्रसादतः | कृतं स्तोत्रमिदं पुण्यं श्रीमद्भिर्यप्पणाभिदैः ॥३३॥ पूज्याय राघवेंद्राय सत्यधर्म रताय च । भजतां कल्पवृक्षाय नमतां कामधेनवे ॥ ३४ ॥ ॥ इति श्री अप्पणाचार्यकृत श्री राघवेंद्र स्तोत्रं संपूर्णं ॥

Devanagari

Suggest a correction

Help us care for this work. Include the passage or audio timestamp and your suggested change. A source reference is welcome.

Your message goes to the Matha’s editorial team. Your email is used only to reply to this report. Privacy policy

← Browse more stotrasRead & listen in the app ↗
RECITATIONRaghavendra Stotra