पालयस्व निपालयस्व निपालयस्व रमापते | वादिराजमुनींद्रवंदित वाजिवक्ट्र नमोस्तु ते॥ प॥
मध्वहृत्कमलस्थितं वरदायकं करुणाकरं लक्ष्मणाग्रजमक्टयं दुरितक्षयं कमलेक्बणम् । रावणांतकमव्ययं वरजानकीरमणं विभुं अंजनासुतपाणिकंजनिषेवितं प्रणमाम्यहम् ॥ १ ॥
देवकीतनयं निजार्जुनसारथिं गरुडध्वजं पूतनाशकटासुरादिखलांतकं पुरुषोत्तमम् | दुष्पकंसनिमर्दनं वररुग्मिणीपतिमच्युतं भीमसेनकरांबुजेन सुसेवितं प्रणमाम्यहम् ॥ २
ज्ञानमुक्तिसुभक्तिदं वरबादरायणमव्ययं कोटिभास्करभासमानकिरीटकुंडलमंडितम् | वाक्सुदर्शनतः कलेः शिरघातकं रमंया युतं मध्वसत्करकंजपूजितमक्टंयं प्रणमाम्यहम् ॥ ३ ॥
॥ इति श्रीवादिराजपूज्यचरणविरचितं अवतारत्रयस्तोत्रम् ॥