Raghavendra Mangalashtakam

Script : Devanagari

श्रीमद्रामपदारविंदमधुपः श्रीमध्ववंशाधिपः सच्छिष्योडुगणोडुपः श्रितजगद्गीर्वाणसत्पादपः । अत्यर्थं मनसा कृताच्युतजपः पापांधकारातपः श्रीमत्सद्गुरुराघवेंद्रयतिराट्‌ कुर्याद्दुवं मंगलम्‌ ॥ १

कर्मंदींद्रसुधींद्रसद्गुरुकरांभोजोद्भवः संततं प्राज्यध्यानवशीकृताखिलजगद्वास्तव्यलक्ष्मीधवः ॥ सच्चास्ट्रातिविदूषकाखिलमृषावादीभकंठीरवः श्रीमत्सद्गुरुराघवेंद्रयतिराट्‌ कुर्याद्भ्रुवं मंगलम्‌ ॥ २॥

सालंकारककाव्यनाटककलाकाणादपातंजल त्रय्यर्थस्मृतिजैमिनीयकवितासंगीतपारंगतः [ विप्रक्षत्रविडंप्रिजातमुखरानेकप्रजासेवितः श्रीमत्सद्गुरुराघवेंद्रयतिराट्‌ कुर्याद्भ्रुवं मंगलम्‌ ॥ ३ ॥

रंगोत्तुंगतरंगमंगलकरश्रीतुंगभद्रातट प्रत्यस्थद्विजपुंगवालयलसन्मंत्रालयाख्ये परे । नव्येंद्रोपलनीलभव्यकरसद्भृंदावनांतर्गतः श्रीमत्सद्गुरुराघवेंद्रयतिराट्‌ कुर्याद्भ्रुवं मंगलम्‌ ॥ ४॥

विद्वद्राजशिरःकिरीटखचितानर्फ़्योरुरत्नप्रभा रागाफ़ौघहपादुकाद्वयचरः पद्माक्चमालाधरः | भास्वद्दंडकमंडलूज्ज्वलकरो रक्तांबराडंबरः श्रीमत्सद्गुरुराघवेंद्रयतिराट्‌ कुर्याद्भ्रुवं मंगलम्‌ ॥ ५ ॥

यद्वृंदावनसप्रदक्षिणनमस्काराभिषेकस्तुति ध्यानाराधनमृद्विलेपनमुखानेकोपचारान्‌ सदा ट कारंकारमभिप्रयांति चतुरो लोकाः पुमर्थान्‌ सदा श्रीमत्सद्गुरुराघवेंद्रयतिराट्‌ कुर्याद्भ्रुवं मंगलम्‌ ॥ ६॥

वेदव्यासमुनीशमध्वयतिराट्बीकार्यवाक्यामृतं ज्ञात्वांद्वैतमतं हलाहलसमं त्यक्त्वा समाख्याप्तये | संख्यावत्सुखदां दशोपनिषदां व्याख्यां समाख्यान्‌ मुदा श्रीमत्सद्गुरुराघवेंद्रयतिराट्‌ कुर्याद्भ्रुवं मंगलम्‌ ॥ ७॥

श्रीमद्दॆ ्वैष्ण; वलोकजालकगुरुः श्रीमत्प रिव्राड्यः रुः शास्त्र « देवगुरुः श्रितामरतरुः प्रत्यूः हगोत्रस्व रुः । चेतोइतीतशिरुस्तथा जितवरुः सत्तौख्यस रपत्करुः श्रीमत्सद्गुरुराघवेंद्रयतिराट्‌ कुर्याद्भ्रुवं मंगलम्‌ ॥ ८ ॥

यः संध्यास्वनिशं गुरोर्व्वतिपतेः सन्मंगलस्याष्टकं सद्यः पापहरं स्वसेविविदुषां भक्त्यैव बाभाषितम्‌ । भक्त्या वक्ति सुसंपदं शुभपदं दिरर्षायुरारोग्य कं कीर्तिं पुत्रकलत्रबांधवसुहृन्मूर्तीः प्रयाति ध्रुवम्‌ ॥ ९॥

॥ इति श्रीमदप्पणाचार्यकृतं श्रीराघवेंद्रमंगलाष्टकम्‌ ॥|

Devanagari

Suggest a correction

Help us care for this work. Include the passage or audio timestamp and your suggested change. A source reference is welcome.

Your message goes to the Matha’s editorial team. Your email is used only to reply to this report. Privacy policy

← Browse more stotrasRead & listen in the app ↗