वेंकटेशो वासुदेवः प्रद्युम्नो*मितविक्रमः [ संकर्षणोणनिरुद्धश्च शेषाद्रिपतिरेवच ॥ १॥
जनार्दनः पद्मनाभो वेंकटाचलवासनः । सृष्टिकर्ता जगन्नाथो माधवो भक्तवत्सलः ॥ २ ॥
गोविंदो गोपतिः कृष्णः केशवो गरुडध्वजः । वराहो वामनश्चैव नारायण अधोक्पजः ॥ ३ ॥
श्रीधरः पुंडरीकाक्टः सर्वदेवस्तुतो हरिः । श्रीनृसिंहो महासिंहः सूत्राकारः पुरातनः ॥ ४ ॥
रमानाथो महीभर्ता भूधरः पुरुषोत्तमः । चोलपुत्रप्रियः शांतो ब्रह्मादीनां वरप्रदः ॥ ५ ॥
श्रीनिधिः सर्वभूतानां भयकृद्धयनाशनः | श्रीरामो रामभद्रश्च भवबंधैकमोचकः ॥ ६ ॥
भूतावासः गिरावासः श्रीनिवासः श्रियः पतिः । अच्युतानंतगोविंदो विष्णुर्वेंकटनायकः ॥७॥
सर्वदेवैकशरणं सर्वदेवैकदैवतम् । समस्तदेवकवचं सर्वदेवशिखामणिः ॥ ८ ॥
इतीदं कीर्तितं यस्य विष्णोरमिततेजसः त्रिकाले यः पठेन्नित्यं पापं तस्य न विद्यते ॥९॥
राजद्वारे पठेद्धोरे संग्रामे रिषुसंकटे । भूतसर्पपिशाचादिभयं नास्ति कदाचन ॥ १०
अपुत्रो लभते पुत्रान् निर्धनो धनवान् भवेत् | रोगार्तो मुच्यते रोगाद्बद्धो मुच्येत बंधनात् ॥ ११ ॥
यद्यदिष्टतमं लोके तत्तत्छ्राप्नोत्यसंशयः | ऐश्वर्यं राजसन्मानं भुक्तिमुक्तिफ़लप्रदम् ॥ १२ ॥
विष्णोर्लोकैकसोपानं सर्वदुःखैकनाशनम् । सर्वैश्वर्यप्रदं न्वणां सर्वमंगलकारकम् ॥ १३ ॥
मायावी परमानंदं त्यक्त्वा वैकुंठमुत्तमम् | स्वामिपुष्करिणीतीरे रमया सह मोदते ॥ १४ ॥
कल्याणाद्भुतगात्राय कामितार्थप्रदायिने । श्रीमद्वेंकटनाथाय श्रीनिवासाय ते नमः ॥ १५ ॥
वेंकटाद्रिसमं स्थानं ब्रह्मांडे नास्ति किंचन | वेंकटेशसमो देवो न भूतो न भविष्यति ।
एतेन सत्यवाक्केन सर्वार्थान् साधयाम्यहम् ॥ १६ ॥
॥ इति श्रीब्रह्मांडपुराणे ब्रह्मनारदसंवादे श्रीवेंकटेशस्तोत्रम् ॥