ओं ॥ बहुदुःखभरोदर्कस्तमसोग्रतमोधमः 1 नरको नर को वा तं मतिमानतिवर्तते ॥ १॥ नरकांतकपादाब्जपरिचर्यापरान्नरान् | विना विनायकाद्यर्जापरोइप्युच्चतरोररितः ॥ २ ॥ पतेत्तत्र न तत्राणं कुर्युस्ते पर्युपासिताः । पश्य दृश्यपदद्वंद्वस्यार्थं न व्यर्थधीर्भव ॥ ३ ॥ असुरो हि सुरक्षेशकरो नरकनामकः | तस्य हंता सतां चिंतासंतापाद्यंतकृन्न किम् 1 ४॥ विशेषेण घ्नंति कार्यं विघ्नास्तेषामधीश्वरः । आरब्धशुभकार्याणां विरुद्धस्य हि नायकः ॥ ५ ॥ अजामिलो द्विजः पूर्वमतिचक्राम केन तान् | ससुराः कस्य भजकाः कुतो वा तत्र चक्रमुः ॥ ६ ॥ इति चिंतय तेनापि संदेहं छिंधि मंद ते | गंगासेतू पापभंगकरौ कोककुरुत प्रभुः ॥ ७ ॥ हयाननस्क वाक्चिष्यो नाभिपुत्रः पदार्चकः | गुरुर्हि तस्य भ्रूभंगः शिवाय स्कात्सतां सदा ॥ ८ ॥ वादिराज यतिप्रोक्तं स्तोत्रमेतत्पठन्सदा | वादे विजयमाप्नोति नाधो याति कदाचन ॥ ९ ॥
॥ इति श्रीमद्वादिराजपूज्यचरणविरचितं विष्णुस्तु तिः संपूर्णा ॥