व्यासायाप्रतिमेतिहासरचनोल्लासाय दुर्वादिनां त्रासायासकराय सत्सु कृतविश्वासाय दोषद्विषे भासा यामुनरम्यतोयसदृशायासायमासेविने दासायाभयदाय मध्वगुरुहृद्वासाय तुभ्यं नमः ॥ १॥
व्यासाय भवनाशाय श्रीशाय गुणराशये । हृद्याय शुद्धविद्याय मध्वाय च नमो नमः ॥ २ ॥
॥ इति श्रीवादिराजयतिविरचितं श्रीव्यासवर्णनम् ॥