Narasimhastakam

Shodashabahu Narasimha Ashtaka

Sri Vijayendra Teertha

Script : Devanagari

भूखंडं वारणांडं परवरविरटं डंपडंपोरुडंपं डिंडिंडिंडिं डिडिंबं दहमपि दहमैर्झंपझंपैश्चझंपैः | तुल्यास्तुल्यास्तु तुल्याः धुमधुमधुमकैः कुंकुमांकैः कुमांकैः एतत्ते पूर्णयुक्तं अहरहकरहः पातु मां नारसिंहः || 1 ||

भूभृद्भूभृद्भुजंगं प्रलयरववरं प्रज्वलद् ज्वालमालं खर्जर्जं खर्जदुर्जं खखचखचखचित् खर्जदुर्जर्जयंतं | भूभागं भोगभागं गगगगगगनं गर्दमत्युग्रगंडं स्वच्छं पुच्छं स्वगच्छं स्वजनजननुतः पातु मां नारसिंहः || 2 ||

एनभ्रं गर्जमानं लघुलघुमकरो बालचंद्रार्कदंष्ट्रं हेमांभोजं सरोजं जटजटजटिलो जाड्यमानस्तु भीतिः | दंतानां बाधमानां खगटखगटवो भोजजानुस्सुरेंद्रो निष्प्रत्यूहं सराजा गहगहगहतः पातु मां नारसिंहः || 3 ||

शंखं चक्रं च चापं परशुमशमिषं शूलपाशांकुशास्त्रं भिभ्रंतं वज्रखेटं हलमुसलगदा कुंतमत्युग्रदंष्ट्रं | ज्वालाकेशं त्रिनेत्रं ज्वलदनलनिभं हारकेयूरभूषं वंदे प्रत्येकरूपं परपदनिवसः पातु मां नारसिंहः || 4 ||

पादद्वंद्वं धरित्री कटिविपुलतरो मेरु मध्यूड्वमूरुं नाभिब्रह्मांडसिंधुः हृदयमपि भवो भूतविद्वत्समेतः | दुश्चक्रांकं स्वबाहुं कुलिशनखमुखं चंद्रसूर्याग्निनेत्रं वक्त्रं वह्निस्सुविद्युत् सुरगणविजयः पातु मां नारसिंहः || 5 ||

नासग्रं पीनगंडं पलबलमथनं बद्धकेयूरहारं रौद्रं दंष्ट्राकरालं अमितगुणगणं कोटिसूर्याग्निनेत्रं | गांभीर्यं पिंगलाक्षं भ्रुकुटितविमुखं षोडशार्धार्धबाहुं वंदे भीमट्टहासं त्रिभुवनविजयः पातु मां नारसिंहः || 6 ||

के के नृसिंहाष्टके नरवरसदृशं देवभीत्वं गृहीत्वा देवंद्यो विप्रदंदं प्रतिवचनपया याम्यनप्रत्यनैषीः | शापं चापं च खड्गं प्रहसितवदनं चक्रचक्रीचकेन ओमित्ये दैत्यनादं प्रकचविविदुषा पातु मां नारसिंहः || 7 ||

झंझंझंझंझकारं झष झष झषितं जानुदेशं झकारं हुंहुंहुंहुं हकारं हरित कहहसायंदिशेवं वकारं | वंवंवंवं वकारं वदनदलिततं वामपक्षं सुपक्षं लंलंलंलं लकारं लघुवणविजयः पातु मां नारसिंहः || 8 ||

भूतप्रेत पिशाचयक्षगणशः देशांतरोच्चाटना चोरव्यादि महज्वरं भयहरं शत्रुक्षयं निश्चयं | संध्याकाल जपंतमष्टकमिदं सद्भक्ति पूर्वादिभिः प्रह्लादेव वरो वरस्तु जयिता सत्पूजितां भूतये || 9 ||

|| इति श्री विजयींद्रतीर्थ विरचितम् श्री नृसिंहाष्टकम् संपूर्णं ||

Devanagari

Suggest a correction

Help us care for this work. Include the passage or audio timestamp and your suggested change. A source reference is welcome.

Your message goes to the Matha’s editorial team. Your email is used only to reply to this report. Privacy policy

← Browse more stotrasRead & listen in the app ↗
RECITATIONNarasimhastakam