देवताकार्य सिद्ध्यर्थंसभास्तंभ समुद्भवं | श्री नृसिंहं महावीरं नमामि ऋणमुक्तये || 1 ||
लक्ष्म्यालिंगित वामांगं भक्तानां वरदायकम् | श्री नृसिंहं महावीरं नमामि ऋणमुक्तये || 2 ||
आंत्रमालाधरं शंख चक्राद्यायुधधारिणं | श्री नृसिंहं महावीरं नमामि ऋणमुक्तये || 3 ||
स्मरणात् सर्वपापघ्नं कद्रूजविषनाशनं | श्री नृसिंहं महावीरं नमामि ऋणमुक्तये || 4 ||
सिंहनादेन महता दिग्दंतिभयनाशानं | श्री नृसिंहं महावीरं नमामि ऋणमुक्तये || 5 ||
प्रह्लादवरदं श्रीशं दैत्येश्वर विदारणं | श्री नृसिंहं महावीरं नमामि ऋणमुक्तये || 6 ||
क्रूरग्रहैः पीडितानां भक्तानां अभयप्रदं | श्री नृसिंहं महावीरं नमामि ऋणमुक्तये || 7 ||
वेद वेदांत यज्ञेशं ब्रह्मरुद्रादिवंदितं | श्री नृसिंहं महावीरं नमामि ऋणमुक्तये || 8 ||
य इदं पठते नित्यं ऋणमोचन संज्ञितं | अनृणो जायते सद्यो धनं शीघ्रमवाप्नुयात् || 9 ||
|| इति श्री नृसिंहपुराणे ऋणविमोचन स्तोत्रम् संपूर्णं ||