लक्ष्मीर्यस्य परिग्रहः कमल-भूः सूनुर्गरुत्मान् रथः पौत्रश्चंद्र-विभूषणः सुर-गुरु शेषश्च शय्या पुनः | ब्रह्मांडं वर-मंदिरं सुर-गणाः यस्य प्रभोः सेवकाः स त्रैलोक्य-कुटुंब-पालन-परः कुर्याद्धरिर्मंगलम् || १ ||
ब्रह्मा वायु-गिरीश-शेष-गरुडा देवेंद्र-कामौ गुरु- चंद्रार्कौ वरुणानलौ मनु-यमौ वित्तेश-विघ्नेश्वरौ | नासत्यौ निरृतिर्मरुद्-गण-युताः पर्जन्य-मित्रादयः सस्त्रीकाः सुर-पुंगवाः प्रति-दिनं कुर्वंतु नो मंगलम् || २ ||
विश्वामित्र-पराशरौर्व-भृगवोऽगस्त्यः पुलस्त्यः क्रतुः श्रीमानत्रि-मरीच्युचथ्य-पुलहाः शक्तिर्-वसिष्ठोऽंगिराः मांडव्यो जमदग्नि-गौतम-भरद्वाजादय-स्तापसाः श्रीमद्-विष्णु-पदांबुजैक-शरणाः कुर्वंतु नो मंगलम् || ३ ||
मांधाता नहुषोऽंबरीष-सगरौ राजा पृथुर्हैहयः श्रीमान् धर्म-सुतो नळो दशरथो रामो ययातिर्-यदुः | इक्ष्वाकुश्च विभीषणश्च भरतश्चोत्तानपाद-ध्रुवा- वित्याद्या भुवि भूभुजश्च सततं कुर्वंतु नो मंगलम् || ४ ||
श्री-मेरुर्हिमवांश्च मंदर-गिरिः कैलास-शैलस्तथा माहेंद्रो मलयश्च विंध्य-निषधौ सिंहस्तथा रैवतः | सह्याद्रिर्वर-गंधमादन-गिरिर्मैनाक-गोमांतका- वित्याद्या भुवि भूधराश्च सततं कुर्वंतु नो मंगलम् || ५ ||
गंगा-सिंधु-सरस्वती च यमुना गोदावरी नर्मदा कृष्णा भीमरथी च फ़ल्गु-सरयूः श्री-गंडकी गोमती | कावेरी-कपिला-प्रयाग-किटिजा-नेत्रावतीत्यादयो नद्यः श्रीहरि-पाद-पंकज-भुवः कुर्वंतु नो मंगलम् || ६ ||
वेदाश्चोपनिषद्-गणाश्च विविधाः सांगाः पुराणान्विता वेदांता अपि मंत्र-तंत्र-सहितास्तर्काः स्मृतीनां गणाः | काव्यालंकृति-नीति-नाटक-युताः शब्दाश्च नाना-विधाः श्रीविष्णोर्गुण-नाम-कीर्तन-पराः कुर्वंतु नो मंगलम् || ७ ||
आदित्यादि-नव-ग्रहाः शुभ-करा मेषादयो राशयो नक्षत्राणि स-योगकाश्च तिथयस्तद्-देवतास्तद्-गणाः | मासाब्दा ऋतवस्तथैव दिवसाः संध्यास्तथा रात्रयः सर्वे स्थावर-जंगमाः प्रति-दिनं कुर्वंतु नो मंगलम् || ८ ||
इत्येतद् वर-मंगलाष्टकमिदं श्रीराजराजेश्वरे- णाऽख्यातं जगतामभीष्ट-फ़ल-दं सर्वाशुभ-ध्वंसनम् | मांगल्यादि-शुभ-क्रियासु सततं संध्यासु वा यः पठेद् धर्मार्थादि-समस्त-वांछित-फ़लं प्राप्नोत्यसौ मानवः || ९ ||
|| इति श्रीराजराजेश्वरयतिविरचितं मंगलाष्टकं संपूर्णम् ||