Go Savitri Stotram

Script : Devanagari

नारायणं नमस्कृत्य देवीं त्रिभुवनेश्वरीम्‌ ॥ गोसावित्रीं प्रवक्ट्स्यामि व्यासेनोक्तां सनातनीम्‌ ॥ १ ॥

यस्य श्रवणमात्रेण सर्वपापैः प्रमुच्यते । गवां निश्वसितं वेदाः सषडंगपदक्रमाः ॥ २

शिक्षा व्याकरणं छंदो निरुक्तं ज्यौतिषं तथा एतासामग्रशृंगेषु इंद्रविष्णू स्वयंस्थितौ ॥ ३ ॥

शिरो ब्रह्मा गुरुः स्कंधे ललाटे वृषभध्वजः | कर्णयोरश्विनौ देवौ चक्दुषोः शशिभास्करौ ॥ ४ ॥

दंतेषु मरुतो देवा जिह्वायां च सरस्वती । कंठे च वरुणो देवो हृदये हव्यवाहनः ॥ ५ ॥

उदरे पृथिवी देवी सशैलवनकानना | ककुदि द्यौः सनक्चत्रा पृष्ठे वैवस्वतो यमः ॥ ६ ॥

ऊर्वोस्तु वसवो देवा वायुर्जंघे समाश्रितः आदित्यस्त्वाश्रितो वाले साध्याः सर्वांगसंधिषु ॥ ७ ॥

अपाने सर्वतीर्थानि गोमूत्रे जाह्नवी स्वयम्‌ ॥ धृतिः पुष्टिर्महालक्ष्मीर्गोमये संस्थिताः सदा ॥ ८ ॥

नासिकायां च श्रीदेवी ज्येष्ठा वसति भामिनी । चत्वारः सागराः पूर्णा गवां ह्येव पयोधरे ॥ ९

खुरमध्येषु गंधर्वाः खुराग्फ़े पन्नगाः श्रिताः | खुराणां पश्चिमे भागे ह्यप्सराणां गणाः स्मृताः ॥ १० ॥

श्रोणीतटेषु पितरो रोमलांगूलमातश्रिताः । खुषयो रोमकूपेषु चर्मण्येव प्रजापतिः ॥ ११

हुंकारे चतुरो वेदा हुंशब्दे च प्रजापतिः । एवं विष्णुमयं गात्रं तासां गोप्ता स केशवः ॥ १२ ॥

गवां दृष्ट्वा नमस्कृत्य कृत्वा चैव प्रदक्षिणम्‌ । प्रदक्षिणीकृता तेन सप्तद्वीपा वसुंधरा ॥ १३ ॥

कामदोग्ट्री स्वयं कामदोग्भा सन्निहिता मता | गोग्रासस्य विशेषोसस्ति हस्तसंपूर्णमात्रतः ॥ १४ ॥

शतब्राह्मणभुक्तेन सममाहुर्युधिष्ठिर । य इदं पठते नित्यं शृणुंयाद्वा समाहितः ॥ १५ ॥

ब्राह्मणो लभते विद्यां क्चत्रियो राज्यमश्नुते । वैश्यो धनसमृद्धः स्काच्चूद्रः पापात्‌ प्रमुच्यते ॥ १६ ॥

गर्भिणी जनयेत्‌ पुत्रं कन्का भर्तारमाप्नुंयात्‌ | सायं प्रातस्तु पठतां शांतिस्वस्त्यंयनं महत्‌ ॥ १७ ॥

अहोरात्रकृतैः पापैस्तत्सृणात्‌ परिमुच्कते ॥ फ़लं तु गोसहस्रस्येत्युक्तं हि ब्रह्मणा पुरा ॥ १८ ॥

गावो मे ह्यग्रतः संतु गावो मे संतु पृष्ठतः । गावो मे हृदये संतु गवां मध्ये वसाम्यहम्‌ ॥ १९ ॥

सुरभिर्वैष्णवी माता नित्यं विष्णुपदे स्थिता | गोग्रासं तु मंहा दत्तं सुरभिः प्रतिगृह्यताम्‌ ॥ २० ॥

गावो मे मातरः सर्वाः सर्वे मे पितरो वृषाः । ग्रासमुष्टिं मंहा दत्तं सुरभिः प्रतिगृह्यताम्‌ ॥ २१ ॥

फ़लानां गोसहस्तस्य प्रदद्याद्भ्राह्मणोत्तमे | सर्वतीर्थाधिकं पुण्यमित्युक्तं ब्रह्मणा पुरा ॥ २२ ॥

॥ इति श्रीमन्महाभारते भीष्मयुधिष्ठिरसंवादे गोसावित्रीस्तोत्रम्‌ ॥

Devanagari

Suggest a correction

Help us care for this work. Include the passage or audio timestamp and your suggested change. A source reference is welcome.

Your message goes to the Matha’s editorial team. Your email is used only to reply to this report. Privacy policy

← Browse more stotrasRead & listen in the app ↗