श्री मान्पूर्वं प्रजातो दर्शरथनृपते रामनामाथ नीतो विश्वामित्रेण मंत्राहृदनुजसहितस्ताटकां घातकोस्त्रं| ब्रह्माद्यं प्राप्य हंत्वा निशिचरनिकरं यज्ञपालो विमोच्या- हल्यां शापाश्च भंक्त्वा शिवधनुरुपयन् जानकीं नः प्रसीदेत्||१||
आयन् रामः सभार्योध्वनि निजसहजैर्भार्गवेष्वासरोपात् तद्गं हत्वा सुरारिं पुरग उतनुतस्तापसैर्भूपपृष्टै:| कल्याणांतधर्मोगुणलवरहितः प्राणिनामंतरात्मेत् याद्युक्तश्चाभिषेके पुरजनमहितो मह्यतां मे वचोभि:||२||
कैकेयीप्रीतिहेतो: ससहजनृपजो वल्कली यानरण्यं गंगातारी गुहार्च्यः कचरुचिरजटो गीष्पते: पुत्रमान्यः तीर्त्वा कृष्णा० प्रयातोवतु निजममलं चित्रकूट० प्रपन्नं स्वांबाभिभ्रातरं तं शृतजनकगति: सांत्वयन् व्युप्ततीर्थः||३||
दत्त्वास्मै पादुके स्वे क्षितिभरणकृतौ प्रेप्य तं काकनेत्र० व्यस्यारोद्यत्रिनाम्ना वनमथ समितो दंडकं तापसेष्वं| कुर्वन् हत्वा विराधं खलकुलदमनं याचितस्तापसाग्रैस्तेषां दत्वाभयं स्वानसिधनुरिषुधीन् यानगस्त्यात्स पायात्||४||
आसीनः पंचवट्यामकुरुत विकृतां राक्षसीं यो द्विसप्त- क्रव्यादानामप्यनेकानथ खरमवधीद् दूषणं च त्रिशीर्षं| मारीचं मार्गरूपं दशवदनहृतामाकृतिं भूमिजाया अन्विष्यन्नार्तगृध्रं स्वगतिमथ नयन् मामवेत् घ्नन् कबंधं||५||
पंपातीरं स गच्छन्निह कृतवसति: भक्तितुष्वः शबर्यै दत्वा मुक्तिं प्रकुर्वन् हनुमत उदितं प्राप्तसुग्रीवसख्यं| सप्त छित्वाथ तालान् विधिवरबलिनो वालिभित् सूर्यसूनुं कुर्वाणो राज्यपालं समवतु निवसन् माल्यवत्कंदरेसौ||६||
नीत्वा मासान् कपीशानिह दश हरितः प्रेष्य सीतां विचिंत्या यातश्रीमद्धनूमद्गिरिमथ समनुशृत्य गच्छन् कपींद्रै:| सुग्रीवाद्यैरसंख्यैर्दशमुखसहजं मानयन्नब्धिवाचा दैत्यघ्नः सेतुकारी रिपुपुररुदवेद् वानरैर्वैरिघाती||७||
भग्नं कृत्वा दशास्यां गुरुतरवपुषं कुंभकर्ण० निहत्य प्रध्वस्ताशेषनागं पदकमलनतं तार्क्ष्यमानंद्य रामः| सर्वानुज्जीवयंतं गिरिधरमनघश्चांजनेयात् कपीन् स्वान् विज्ञानास्त्रेण रक्षन् समवतु दमयन् लक्ष्मणाच्चक्रशत्रं||८||
क्रव्यादान् घ्नन्नसंख्यानपि दशवदनं ब्रह्मपूर्वै: सुरेशै: पुष्पैराकीर्यमाणो हुतवहविमलामाप्य सीतां विधाय| रक्षोनाथं स्वभक्तं स्वपुरमथ गतः पुष्पकस्थै: समस्तै: साम्राज्ये चाभिषिक्तो निजजनमखिलं मानयन् मे गति: स्यात् ||९|| रक्षन् क्षोणीं ममृद्धां नुत उत मुनिभिर्मानयन् वायुसूनं प्रेष्यादित्यात्मजादीन् व्यतनुत भरतं यौवराज्येनुमान्य| कार्ये सौमित्रिमार्तश्वगदितकृदरिघ्नोथ शत्रुघ्नतो यो हत्वासौ दुष्वशूद्रं द्विजसुतगुबवेत् कुंभजान्मालभारी||१०||
यज्ञ० तन्वन् त्रिकोटीन् व्यतुदत भरताद्योसुरानीशवाक्याद् यास्यन् धामात्रिपुत्रं भुजिमथ स नयन्नात्मसूनू स्वराज्ये| कृत्वा श्रीह्रीहनूमध्ध्रुतविमलचलच्चामरछत्रशोभी ब्रह्माद्यै: स्तूयमानो निजपुरविलसत्पादपद्मोवतान्माम्||११||
इति श्रीरामचारित्रमंजरी लेशतः कृता| राघवेंद्रेण यतिना भूयाद् रामप्रसाददा||१२||
इति श्री राघवेंद्रतीर्थश्री चरणकृता श्री रामचारित्रमंजरी भारतीरमणमुख्यप्राणांतर्गत श्री कृष्णार्पणमस्तु