ततो युद्ध परिश्रांतं समरे चिंतया स्थितम् | रावणं चाग्रतो दृष्ट्वा युद्धाय समुपस्थितम् || 1 ||
दैवतैश्च समागम्य द्रष्टुमभ्यागतो रणम् | उपागम्या ब्रवीद्राममगस्त्यो भगवान् ऋषिः || 2 ||
राम राम महाबाहो शृणु गुह्यं सनातनम् | येन सर्वानरीन् वत्स समरे विजयिष्यसि || 3 ||
आदित्य हृदयं पुण्यं सर्वशत्रु विनाशनम् | जयावहं जपन्नित्यमक्षय्यं परमं शुभम् || 4 ||
सर्वमंगल मांगल्यं सर्व पाप प्रणाशनम् | चिंताशोक प्रशमनमियुर्वर्धन मुत्तमम् || 5 ||
रश्मिमंतं समुद्यंतं देवासुर नमस्कृतं | पूजयस्व विवस्वंतम् भास्करं भुवनेश्वरम् || ६||
सर्वदेवात्मको ह्येषस्तेजस्वी रश्मिभावनः | एष देवासुरगणान् लोकान् पाति गभस्तिभिः || ७ ||
एष ब्रह्मा च विष्णुश्च शिवः स्कंदः प्रजापतिः | महेंद्रो धनदः कालो यमः सोमो ह्यपां पतिः || ८ ||
पितरो वसवस्साध्या ह्यश्विनौ मरुतो मनुः | वायुर्वह्निः प्रजाः प्राणा ऋतुकर्ता प्रभाकरः ||९||
आदित्यस्सविता सूर्यः खगः पूषा गभस्तिमान् | सुवर्णसदृशो भानुः स्वर्णरेता दिवाकरः ||१०||
हरिदश्वः सहस्रार्चिः सप्तसप्तिर्मरीचिमान् तिमिरोन्मथनः शंभुस्त्वष्टा मार्तांडकोऽंशुमान् ||११||
हिरण्यगर्भः शिशिरस्तपनो भास्करो रविः | अग्निगर्भोऽदितेः पुत्रः शंखः शिशिरनाशनः || १२ ||
व्योमनाथ स्तमोभेदी ऋग्यजुस्सामपारगः | घनवृष्टि रपां मित्रो विंध्यवीथी प्लवंगमः || १३||
आतपी मंडली मृत्युः पिंगलः सर्वतापनः | कविर्विश्वो महातेजा रक्तः सर्वभवोद्भवः || १४ ||
नक्षत्र ग्रह ताराणामधिपो विश्वभावनः | तेजसामपि तेजस्वी द्वादशात्मन्नमोऽस्तु ते || १५||
नमः पूर्वाय गिरये पश्चिमायाद्रये नमः | ज्योतिर्गणानां पतये दिनाधिपतये नमः || १६||
जयाय जयभद्राय हर्यश्वाय नमो नमः | नमो नमः सहस्रांशो आदित्याय नमो नमः || १७ ||
नम उग्राय वीराय सारंगाय नमो नमः | नमः पद्मप्रबोधाय मार्तांडाय नमो नमः || १८ ||
ब्रह्मेशानाच्युतेशाय सूर्यायादित्यवर्चसे | भास्वते सर्वभक्षाय रौद्राय वपुषे नमः || १९ ||
तमोघ्नाय हिमघ्नाय शत्रुघ्नाया मितात्मने | कृतघ्नघ्नाय देवाय ज्योतिषां पतये नमः || २० ||
तप्त चामीकराभाय वह्नये विश्वकर्मणे | नमस्तमोऽभिनिघ्नाय रवये लोकसाक्षिणे || २१ ||
नाशयत्येष वैभूतं तदेव सृजति प्रभुः | पायत्येष तपत्येष वर्षत्येष गभस्तिभिः || २२ ||
एष सुप्तेषु जागर्ति भूतेषु परिनिष्ठितः | एष एवाग्नि होत्रं च फ़लं चैवाग्नि होत्रिणाम् || २३ ||
वेदाश्च क्रतवश्चैव क्रतूनां फ़लमेव च | यानि कृत्यानि लोकेषु सर्वाण्येष रविः प्रभुः || २४ ||
फ़लशृति
एन मापत्सु कृच्छ्रेषु कांतारेषु भयेषु च | कीर्तियन् पुरुषः कश्चिन्नावसीदति राघव || २५ ||
पूजयस्वैन मेकाग्रो देवदेवं जगत्पतिम् | एतत्त्रिगुणितं जप्त्वा युद्धेषु विजयिष्यसि || २६ ||
अस्मिन् क्षणे महाबाहो रावणं त्वं वधिष्यसि | एवमुक्त्वा तदागस्त्यो जगाम च यथागतम् || २७ ||
एतच्छ्रुत्वा महातेजा नष्टशोकोऽभवत्तदा | धारयामास सुप्रीतो राघवः प्रयतात्मवान् || २८ ||
आदित्यं प्रेक्ष्य जप्त्वा तु परं हर्षमवाप्तवान् | त्रिराचम्य शुचिर्भूत्वा धनुरादाय वीर्यवान् || २९ ||
रावणं प्रेक्ष्य हृष्टात्मा युद्धाय समुपागतम् | सर्वयत्नेन महता वधे तस्य धृतोऽभवत् || ३० ||
अथरविरवदन्निरीक्ष्य रामं मुदितमनाः परमं प्रहृष्यमाणः | निशिचरपति संक्षयं विदित्वा सुरगण मध्यगतो वचस्त्वरेति || ३१ ||
इति श्रीमद्रामायणे युद्धकांडे सप्तोत्तरशततमस्सर्गः सरथं सारथिर्हृष्टः परसैन्यप्रधर्षणम् | गंधर्वनगराकारं समुच्छ्रितपताकिनम् ||
श्री आदित्यहृदयं संपूर्णं || श्रीकृष्णार्पणमस्तु ||