हेमाद्रि-शिखराकारं शुद्ध-स्फ़टिक-सन्निभम् | पूर्णचंद्र-निभं देवं द्विभुजं वामनं स्मरेत् || १ ||
पद्मासनस्थं देवेशं चंद्रमंडल-मध्यगम् | ज्वलत्कालानल-प्रख्यं तटित्कोटि-समप्रभम् || २ ||
सूर्यकोटि-प्रतीकाशं चंद्रकोटि-सुशीतलम् | चंद्रमंडल-मध्यस्थं विष्णुमच्युतमव्ययम् || ३ ||
श्रीवत्स-कौस्तुभोरस्कं दिव्यरत्न-विभूषितम् | पीतांबरधरं देवं वनमाला-विभूषितम् || ४ ||
सुंदरं पुंडरीकाक्षं किरीटेन विराजितम् | षोडशस्त्रीपरिवृतम्-अप्सरोगण-सेवितम् || ५ ||
सनकादिभिरन्यैश्च स्तूयमानं समंततः | ऋग्यजुस्सामाथर्वाभिर्-गीयमानं जनार्दनम् || ६ ||
चतुर्मुखाद्यैर्देवेशैः स्तोत्राराधन-तत्परैः | त्रियंबको महादेवो नृत्यते यस्य सन्निधौ || ७ ||
दधिमिश्रान्नकवलं रुग्मपात्रं च दक्षिणे | करेऽपि चिंतयेद्वामे पीयूषममलं सुधीः || ८ ||
साधकानां प्रयच्छंतमन्नपानमनुत्तमम् | ब्राह्मे मुहूर्ते चोत्थाय ध्यायेद्देवमधोक्षजम् | आयुरारोग्यमैश्वर्यं लभते चान्नसंपदम् || ९ ||
अतिसुविमलगात्रं रुग्मपात्रस्थमन्नं सुललितदधिखंढं पाणिना दक्षिणेन | कलशममृतपूर्णं वामहस्ते दधानं तरति सकलदुःखाद्वामनं भावयेद्यः || १० ||
इदं स्तोत्रं पठेद्यस्तु प्रातःकाले द्विजोत्तमः | अक्लेशादन्नसिद्ध्यर्थं ज्ञानसिद्ध्यर्थमेव च || ११ ||
अभ्रश्यामः शुभ्रयज्ञोपवीती सत्कौपीनः पीत-कृष्णाजिनश्रीः | छत्री दंडी पुंडरीकायताक्षः पायाद्देवो वामनो ब्रह्मचारी || १२ ||
अजिनदंड-कमंडलु-मेखला-रुचिर-पावन-वामन-मूर्तये | मितजगत्त्रितयाय जितारये निगमवाक्पटवे वटवे नमः || १३ ||
श्रीभूमिसहितं दिव्यं मुक्ताहार-विभूषितम् | नमामि वामनं देवं भुक्तिमुक्ति-वरप्रदम् || १४ ||
वामनो बुद्धिदाता च द्रव्यस्थो वामनः स्मृतः | वामनस्तारकोभाभ्यां वामनाय नमो नमः || १५ ||
|| इति श्रीवामनपुराणे दधिवामनस्तोत्रं संपूर्णम् ||