श्रीमदानंदतीर्थभगवत्पादविरचिता नखस्तुतिः
ओं पांत्वस्मान् पुरहूत-वैरि-बलवन्- मातंग-माद्यद्-घटा- कुंभोच्चाद्रि-विपाटनाधिक-पटु- प्रत्येक-वज्रायिताः | श्रीमत्-कंठीरवास्य- प्रतत-सु-नखरा दारिताराति-दूर- प्रध्वस्त-ध्वांत-शांत- प्रवितत-मनसा भाविता भूरि-भागैः || (भाविता भूरि-नाकिवृंदै (प्रचलितपाठ))
लक्ष्मीकांत समंततोSपि कलयन् नैवेशितुस्ते समं पश्यम्युत्तम-वस्तु दूर-तरतोS- पास्तं रसो योSष्टमः | यद्-रोषोत्कर- दक्ष-नेत्र-कुटिल- प्रांतोत्थिताग्नि-स्फ़ुरत्- खद्योतोपम- विस्फ़ुलिंग-भसिता ब्रह्मेश-शक्रोत्कराः ||
श्रीमत्कविकुलतिलक- त्रिविक्रमपंडिताचार्यविरचिता वायुस्तुतिः
श्रीमद्-विष्ण्वंघ्रि-निष्ठातिगुण- गुरुतम- श्रीमदानंदतीर्थ- त्रैलोक्याचार्य-पादो- ज्ज्वल-जलज-लसत्- पांसवोSस्मान् पुनंतु | वाचां यत्र प्रणेत्री त्रि-भुवन-महिता शारदा शारदेंदु- ज्योत्स्ना-भद्र-स्मितश्री- धवळित-ककुभा प्रेम-भारं बभार || 1 ||
उत्कंठाकुंठ-कोला- हल-जव-विदिता- जस्र-सेवानुवृद्ध- प्राज्ञात्म-ज्ञान-धूतां- धतमस-सुमनो- मौळि-रत्नावलीनाम् | भक्त्युद्रेकावगाढ- प्रघटन-सधटात्- (प्रघटन–सघटात्- (प्रचलितपाठ)) कार-संघृष्यमाण- प्रांत-प्राग्र्यांघ्रि-पीठो- त्थित-कनक-रजः- पिंजरारंजिताशाः || 2 ||
जन्माधि-व्याध्युपाधि- प्रतिहति-विरह- प्रापकाणां गुणानां- अग्र्याणामर्पकाणां चिरमुदित-चिदा- नंद-संदोह-दानाम् | एतेषामेष दोष- प्रमुषित-मनसां द्वेषिणां दूषकाणां दैत्यानामार्तिमंधे तमसि विदधतां संस्तवे नास्मि शक्तः || 3 ||
अस्याविष्कर्तुकामं कलि-मल-कलुषेS- स्मिन्-जने ज्ञान-मार्गं वंद्यं चंद्रेंद्र-रुद्र- द्युमणि-फ़णि-वयो- नायकाद्यैरिहाद्य | मध्वाख्यं मंत्र-सिद्धं किमुत कृतवतो मारुतस्यावतारं पातारं पारमेष्ठ्यं पदमप-विपदः प्राप्तुरापन्न-पुंसाम् || 4 ||
उद्यद्-विद्युत्-प्रचंडां निज-रुचि-निकर- व्याप्त-लोकावकाशो बिभ्रद् भीमो भुजे योS- भ्युदित-दिनकरा- भांगदाढ्य-प्रकांडे | वीर्योद्धार्यां गदाग्र्यां- अयमिह सु-मतिं वायु-देवो विदध्याद् अध्यात्म-ज्ञान-नेता यति-वर-महितो भूमि-भूषा-मणिर्मे || 5 ||
संसारोत्ताप-नित्यो- पशमद-सदय- स्नेह-हासांबुपूर- प्रोद्यद्-विद्यानवद्य- द्युति-मणि-किरण- श्रेणि-संपूरिताशः | श्रीवत्सांकाधिवासो- चिततर-सरळ- श्रीमदानंद-तीर्थ- क्षीरांभोधिर्विभिंद्याद् भवदनभिमतं भूरि मे भूति-हेतुः || 6 ||
मूर्धन्येषोSंजलिर्मे दृढ-तरमिह ते बद्ध्यते बंध-पाश- च्छेत्रे दात्रे सुखानां भजति भुवि भविष्यद्- विधात्रे द्यु-भत्र्रे | अत्यंतं संततं त्वं प्रदिश पद-युगे हंत संताप-भाजां- अस्माकं भक्तिमेकां भगवत उत ते माधवस्याथ वायोः || 7 ||
साभ्रोष्णाभीशु-शुभ्र- प्रभमभय नभो भूरि-भूभृद्-विभूति- भ्राजिष्णुर्भूर्ऋभूणां भवनमपि विभोS- भेदि बभ्रे बभूवे | येन भ्रू-विभ्रमस्ते भ्रमयतु सुभृशं बभ्रुवद् दुर्भृताशान् भ्रांतिर्भेदावभासः- त्विति भयमभिभूः- भोक्ष्यतो मायिभिक्षून् ||8||
येSमुं भावं भजंते सुर-मुख-सु-जना- राधितं ते तृतीयं भासंते भासुरैस्ते सहचर-चलितैः- चामरैश्चारु-वेषाः | वैकुंठे कंठ-लग्न- स्थिर-शुचि-विलसत्- कांति-तारुण्य-लीला- लावण्यपूर्ण-कांता- कुच-भर-सुलभा- श्लेष-सम्मोद-सांद्राः || 9 ||
आनंदान् मंद-मंदा ददति हि मरुतः कुंद-मंदार-नंद्या- वर्तामोदान् दधना मृदु-पदमुदितोद्- गीतकैः सुंदरीणाम् | वृंदैरावंद्य-मुक्तें- द्वहिमगु-मदना- हींद्र-देवेंद्र-सेव्ये मौकुंदे मंदिरेSस्मिन्- अविरत-मुदयन्- मोदिनां देव-देव || 10 ||
उत्तप्ताSत्युत्कट-त्विट् प्रकट-कटकट- ध्वान-संघट्टनोद्यद्- विद्युद्-व्यूढ-स्फ़ुलिंग- प्रकर-विकिरणोत्- क्वाथिते बाधितांगान् | उद्गाढं पात्यमाना तमसि तत इतः किंकरैः पंकिले ते पंक्तिर्ग्राव्णां गरिम्णा ग्लपयति हि भवद्- द्वेषिणो विद्वदाद्य || 11 ||
अस्मिन्नस्मद्-गुरूणां हरि-चरण-चिर- ध्यान-सन्मंगलानां युष्माकं पार्श्व-भूमिं धृत-रणरणिक- स्वर्गि-सेव्यां प्रपन्नः | यस्तूदास्ते स आस्तेS- धिभव-मसुलभ- क्लेश-निर्मोकमस्त- प्रायानंदं कथंचिन्- न वसति सततं पंच-कष्टेSतिकष्टे || 12 ||
क्षुत्-क्षामान् रूक्ष-रक्षो- रद-खर-नखर- क्षुण्ण-विक्षोभिताक्षान् आमग्नानंध-कूपे क्षुर-मुख-मुखरैः पक्षिभिर्विक्षतांगन् | पूयासृङ्-मूत्र-विष्ठा- कृमि-कुल-कलिले तत्क्षण-क्षिप्त-शक्त्या- द्यस्त्र-व्रातार्दितांस्त्वद्- द्विष उपजिहते वज्र-कल्पा जळूकाः || 13 ||
मातर्मे मातरिश्वन् पितरतुल-गुरो भ्रातरिष्टाप्त-बंधो स्वामिन् सर्वांतरात्मन्- अजर जरयितः- जन्म-मृत्यामयानाम् | गोविंदे देहि भक्तिं भवति च भगवन्- ऊर्जितां निर्निमित्तां निव्र्याजां निश्चलां सद्-गुण-गण-बृहतीं शाश्वतीमाशु देव || 14 ||
विष्णोरत्युत्तमत्वाद्- अखिल-गुण-गणैः- तत्र भक्तिं गरिष्ठां आश्लिष्टे श्री-धराभ्या- (संश्लिष्टे श्री-धराभ्या- (प्र. पा)) ममुमथ परिवा- रात्मना सेवकेषु | यः संधत्ते विरिंच- श्वसन-विहगपा- नंत-रुद्रेंद्र-पूर्वे- ष्वाध्यायंस्तारतम्यं स्फ़ुटमवति सदा वायुरस्मद्-गुरुस्तम् || 15 ||
तत्व-ज्ञान् मुक्ति-भाजः सुखयसि हि गुरो योग्यता-तारतम्याद् आधत्से मिश्र-बुद्धीन् त्रिदिव-निरय-भू- गोचरान् नित्य-बद्धान् | तामिस्रांधादिकाख्ये तमसि सु-बहुलं दुःखयस्यन्यथा-ज्ञान् विष्णोराज्ञाभिरित्थं श्रुति-शत-मितिहा- सादि चाSकर्णयामः || 16 ||
वंदेSहं तं हनूमान् इति महित-महा- पौरुषो बाहुशाली ख्यातस्तेSग्र्योSवतारः सहित इह बहु- ब्रह्मचर्यादि-धर्मैः | सस्नेहानां सहस्वान्- अहरहरहितं निर्दहन् देहभाजां- अंहो-मोहापहो यः स्पृहयति महतीं भक्तिमद्यापि रामे || 17 ||
प्राक् पंचाशत्-सहस्रैः- व्यवहित-ममितं योजनैः पर्वतं त्वं यावत् संजीवनाद्यौ- षध-निधिमधिक- प्राण लंकामनैषीः | अद्राक्षीदुत्-पतंतं तत उत गिरिमुत्- पाटयंतं गृहीत्वाSS- यांतं खे राघवांघ्रौ प्रणतमपि तदै- क-क्षणे त्वां हि लोकः || 18 ||
क्षिप्तः पश्चात् सलीलं शतमतल-मते योजनानां स उच्चः- तावद् विस्तारवांश्चा- प्युपल-लव इव व्यग्र-बुद्ध्या त्वयाSतः | स्व-स्व-स्थान-स्थिताति- स्थिर-शकल-शिला- जाल-संश्लेष-नष्ट- च्छेदांकः प्र्रागिवाभूत् कपि-वर-वपुषस्ते नमः कौशलाय || 19 ||
दृष्ट्वा दुष्टाधिपोरः स्फ़ुटित-कनक-सद्- वर्म-घृष्टास्थि-कूटं निष्पिष्टं हाटकाद्रि- प्रकट-तट-तटा- काति-शंको जनोSभूत् | येनाSजौ रावणारि- प्रिय-नटन-पटुः- मुष्टिरिष्टं प्रदेष्टुं किं नेष्टे मे स तेSष्टा- पद-कटक-तटित्- कोटि-भामृष्ट-काष्ठः || 20 ||
देव्यादेश-प्रणीति- द्रुहिण-हर-वरा- वध्य-रक्षो-विघाता- द्यासेवोद्यद्-दयार्द्रः सहभुज-मकरोद् राम-नामा मुकुंदः | दुष्ट्रापे पारमेष्ठ्ये कर-तलमतुलं मूध्र्नि विन्यस्य धन्यं तन्वन् भूयः प्रभूत- प्रणय-विकसिताब्जे- क्षणस्त्वेक्षमाणः || 21 ||
जघ्ने निघ्नेन विघ्नो बहुल-बल-बक- ध्वंसनाद् येन शोचद्- विप्रानुक्रोश-पाशैः- असु-विधृति-सुख स्यैकचक्रा-जनानाम् | तस्मै ते देव कुर्मः कुरु-कुल-पतये कर्मणा च प्रणामान् किर्मीरं दुर्मतीनां प्रथममथ च यो नर्मणा निर्ममाथ || 22 ||
निर्मृद्नन्नत्ययत्नं विजर-वर जरा- संध-कायास्थि-संधीन् युद्धे त्वं स्वध्वरे वा पशुमिव दमयन् विष्णु-पक्ष-द्विडीशम् | यावत् प्रत्यक्ष-भूतं निखिल-मख-भुजं तर्पयामासिथासौ तावत्याSSयोजि तृप्त्या किमु वद भगवन् राजसूयाश्वमेधे || 23 ||
क्ष्वेलाक्षीणाट्टहासं तव रणमरि-हन्- उद्गदोद्दाम-बाहोः बह्व क्षोहिण्यनीक- क्षपण-सुनिपुणं यस्य सर्वोत्तमस्य | शुश्रूषार्थं चकर्थ स्वयमयमिह सं- वक्तुमानंद-तीर्थ- श्रीमन्नामन् समर्थः- त्वमपि हि युवयोः पाद-पद्मं प्रपद्ये || 24 ||
द्रुह्यंतीं हृद्-रुहं मां द्रुत-मनिल बलाद् द्रावयंतीमविद्या- निद्रां विद्राव्य सद्यो- रचन-पटुमथाS- पाद्य विद्या-समुद्र | वाग्-देवी सा सुविद्या- द्रविण-द विदिता द्रौपदी रुद्र-पत्न्या- द्युद्रिक्ता द्रागभद्राद् रहयतु दयिता पूर्वभीमाSज्ञया ते || 25 ||
याभ्यां शुश्रूषुरासीः कुरु-कुल-जनने क्षत्र-विप्रोदिताभ्यां ब्रह्मभ्यां बृंहिताभ्यां चिति-सुख-वपुषा कृष्ण-नामास्पदाभ्याम् | निर्भेदाभ्यां विशेषाद् द्वि-वचन-विषया- भ्याममूभ्यामुभाभ्यां (मुभाभ्याममूभ्यां (प्र.पा.)) तुभ्यं च क्षेमदेभ्यः सरसिज-विलस- ल्लोचनेभ्यो नमोSस्तु || 26 ||
गच्छन् सौगंधिकार्थं पथि स हनुमतः पुच्छमच्छस्य भीमः प्रोद्धर्तुं नाशकत् स त्वमुमुरु-वपुषा भीषायामास चेति | पूर्ण-ज्ञानौजसोस्ते गुरुतम वपुषोः श्रीमदानंद-तीर्थ- क्रीडा-मात्रं तदेतत् प्रमद-द सुधियां मोहक द्वेष-भाजाम् || 27 ||
बह्वीः कोटीरटीकः कुटील-कटु-मतीन्- उत्कटाटोप-कोपान् द्राक् च त्वं सत्वर-त्वात्- शरण-द गदया पोथयामासिथारीन् | उन्मथ्यातथ्य-मिथ्या- त्व-वचन-वचनान् उत्पथ-स्थांस्तथाSन्यान् प्रायच्छः स्व-प्रियायै प्रियतम-कुसुमं प्राण तस्मै नमस्ते || 28 ||
देहदुत्क्रामितानां- अधिपति-रसतां- अक्रमाद् वक्र-बुद्धिः क्रुद्धः क्रोधैक-वश्यः क्रिमिरिव मणिमान् दुष्कृती निष्क्रियार्थम् | चक्रे भू-चक्रमेत्य क्रकचमिव सतां चेतसः कष्ट-शास्त्रं दुस्तर्कं चक्रपाणेः- गुण-गण-विरहं जीवतां चाधिकृत्य || 29 ||
तद्-दुष्ट्रेक्षानुसारात् कतिपय-कुनरैः- आदृतोSन्यैर्विसृष्टो ब्रह्माहं निर्गुणोSहं वितथमिदमिति ह्येष पाषंड-वादः | तद्-युक्त्याभास-जाल प्रसर-विष-तरू- द्दाह-दक्ष-प्रमाण- ज्वाला-माला-धराग्निः (ज्वाला-माला-धरोSग्निः (प्र.पा)) पवन विजयते तेSवतारस्तृतीयः || 30 ||
आक्रोशंतो निराशा भय-भर-विवश- स्वाशयाश्छिन्नदर्पाः वाशंतो देश-नाशः- त्विति बत कु-धियां नाशमाशा दशाSशु | धावंतोSश्लील-शीला वितथ-शपथ-शा- पाशिवाः शांत-शौर्याः त्वद्-व्याख्या-सिंहनादे सपदि ददृशिरे मायि-गोमायवस्ते || 31 ||
त्रिष्वप्येवावतारे- ष्वरिभि-रप-घृणं हिंसितो निर्विकारः सर्व-ज्ञः सर्व-शक्तिः सकल-गुण-गणा- पूर्ण-रूप-प्रगल्भः | स्वच्छः स्वच्छंद-मृत्युः सुखयसि सुजनं देव किं चित्रमत्र त्राता यस्य त्रि-धामा जगदुत वश-गं किंकराः शंकराद्याः || 32 ||
उद्यन्मंद-स्मित-श्री- मृदु मधु-मधुरा- लाप-पीयूष-धारा पूरासेकोपशांता- सुख-सुजन-मनो- लोचनापीयमानम् | संद्रक्ष्ये सुंदरं सं- दुहदिह महदा- नंदमानंद-तीर्थ श्रीमद्-वक्त्रेंदु-बिंबं दुरित-नुदुदितं नित्यदाSहं कदा नु || 33 ||
प्राचीनाचीर्ण-पुण्यो- च्चय-चतुर-तरा- चारतश्चारु-चित्तान् अत्युच्चां रोचयंतीं श्रुति-चित-वचनान्- श्रावकांश्चोद्य-चुंचून् | व्याख्यामुत्-खात-दुःखां चिरमुचित-महा- चार्य चिंतारतांस्ते चित्रां सच्छास्त्र-कर्तः- चरण-परिचरान्- श्रावयास्मांश्च किंचित् || 34 ||
पीठे रत्नोपक्ल् प्ते रुचिर-रुचि-मणि- ज्योतिषा सन्निषण्णं ब्रह्माणं भाविनं त्वां ज्वलति निजपदे वैदिकाद्या हि विद्याः | सेवंते मूर्तिमत्यः सुचरित चरितं भाति गंधर्व-गीतं प्रत्येकं देव-संसत्- स्वपि तव भगवन् नर्तित-द्यो-वधूषु || 35 ||
सानुक्रोशैरजस्रं जनि-मृति-निरया- द्यूर्मि-मालाविलेSस्मिन् संसाराब्धौ निमग्नान्- शरण-मशरणान् इच्छतो वीक्ष्य जंतून् | युष्माभिः प्रार्थितः सन् जलनिधि-शयनः सत्यवत्यां महर्षेः व्यक्तश्चिन्मात्र-मूर्तिः- र्न खलु भगवतः प्राकृतो जातु देहः || 36 ||
अस्त-व्यस्तं समस्त- श्रुति-गतमधमैः रत्न-पूगं यथाSंधैः- अर्थं लोकोपकृत्यै गुण-गण-निलयः सूत्रयामास कृत्स्नम् | योSसौ व्यासाभिधानः- तमहमहरहः- भक्तितस्त्वत्-प्रसादात् सद्यो विद्योपलब्ध्यै गुरुतममगुरुं देव-देवं नमामि || 37 ||
आज्ञामन्यैरधार्यां शिरसि परिसरद्- रश्मि-कोटीर-कोटौ कृष्णस्याक्लिष्ट-कर्मा दधदनु-सरणाद्- अर्थितो देव-संघैः | भूमावागत्य भूमन्- असुकरमकरोः- ब्रह्मसूत्रस्य भाष्यं दुर्भाष्यं व्यस्य दस्योः- मणिमत उदितं वेद-सद्-युक्तिभिस्त्वम् || 38 ||
भूत्वा क्षेत्रे विशुद्धे द्विज-गण-निलये रूप्यपीठाभिधाने तत्रापि ब्रह्मजातिः- त्त्रिभुवन-विशदे मध्यगेहाख्य-गेहे | पारिव्राज्याधिराजः पुनरपि बदरीं प्राप्य कृष्णं च नत्वा कृत्वा भाष्याणि सम्यग् व्यतनुत च भवान् भारतार्थप्रकाशम् || 39 ||
वंदे तं त्वा सुपूर्ण- प्रमति-मनुदिना- सेवितं देववृंदैः- वंदे वंदारुमीशे श्रिय उत नियतं श्रीमदानंद-तीर्थम् | वंदे मंदाकिनी-सत्- सरिदमल-जला- सेक-साधिक्य-संगं वंदेSहं देव भक्त्या भव-भय-दहनं सज्जनान् मोदयंतम् || 40 ||
सुब्रह्मण्याख्य-सूरेः सुत इति सु-भृशं केशवानंद-तीर्थ- श्रीमत्-पादाब्ज-भक्तः स्तुतिमकृत हरेः- वायु-देवस्य चास्य | तत्-पादार्चादरेण ग्रथित-पद-लसन्- मालया त्वेतया ये संराध्यामू नमंति प्रतत-मति-गुणा मुक्तिमेते व्रजंति || 41 ||
इति श्रीमत् कविकुलतिलक-त्रिविक्रमपंडिताचार्यविरचिता वायुस्तुतिः समाप्ता ||
पांत्वस्मान् पुरहूत-वैरि-बलवन्- मातंग-माद्यद्-घटा- कुंभोच्चाद्रि-विपाटनाधिक-पटु- प्रत्येक-वज्रायिताः | श्रीमत्-कंठीरवास्य- प्रतत-सु-नखरा दारिताराति-दूर- प्रध्वस्त-ध्वांत-शांत- प्रवितत-मनसा भाविता भूरि-भागैः || (भाविता भूरि-नाकिवृंदै (प्रचलितपाठ))
लक्ष्मीकांत समंततोSपि कलयन् नैवेशितुस्ते समं पश्यम्युत्तम-वस्तु दूर-तरतोS- पास्तं रसो योSष्टमः | यद्-रोषोत्कर- दक्ष-नेत्र-कुटिल- प्रांतोत्थिताग्नि-स्फ़ुरत्- खद्योतोपम- विस्फ़ुलिंग-भसिता ब्रह्मेश-शक्रोत्कराः ||